वांछित मन्त्र चुनें

रा॒तिं यद्वा॑मर॒क्षसं॒ हवा॑महे यु॒वाभ्यां॑ वाजिनीवसू । प्राचीं॒ होत्रां॑ प्रति॒रन्ता॑वितं नरा गृणा॒ना ज॒मद॑ग्निना ॥

अंग्रेज़ी लिप्यंतरण

rātiṁ yad vām arakṣasaṁ havāmahe yuvābhyāṁ vājinīvasū | prācīṁ hotrām pratirantāv itaṁ narā gṛṇānā jamadagninā ||

पद पाठ

रा॒तिम् । यत् । वा॒म् । अ॒र॒क्षस॑म् । हवा॑महे । यु॒वाभ्या॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प्राची॑म् । होत्रा॑म् । प्र॒ऽति॒रन्तौ॑ । इ॒त॒म् । न॒रा॒ । गृ॒णा॒ना । ज॒मत्ऽअ॑ग्निना ॥ ८.१०१.८

ऋग्वेद » मण्डल:8» सूक्त:101» मन्त्र:8 | अष्टक:6» अध्याय:7» वर्ग:7» मन्त्र:3 | मण्डल:8» अनुवाक:10» मन्त्र:8